(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.127. अध्यायः 127
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन श्रीकृष्णंप्रति स्वस्मिन्नपराधलेशोऽपि नास्तीति कथनम् ॥ 1 ॥ भीष्मादिरक्षितस्य स्वस्याजय्यत्वकथनपूर्वकं युद्धे निधनसंभवेऽपि पाण्डवेभ्यः सूच्यग्रपरिमितभूमेरप्यप्रदानवचनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-127-0x(3763)(36054)
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि।
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥ 5-127-1(36055)
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव।
मामेव हि विशेषेण विभाष्य परिगर्हसे ॥ 5-127-2(36056)
भक्तिवादेन पार्थानामकस्मान्मधुसूदन।
भवान्गर्हयति नित्यं किं समीक्ष्य बलाबलम् ॥ 5-127-3(36057)
भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः ।
मामेव परिगर्हन्ते नान्यं कंचन पाण्डवम् ॥ 5-127-4(36058)
न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः ।
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥ 5-127-5(36059)
न चाहं कंचिदत्यर्थमपराधमरिन्दम ।
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥ 5-127-6(36060)
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन।
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥ 5-127-7(36061)
यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः ।
तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन ॥ 5-127-8(36062)
अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः।
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥ 5-127-9(36063)
केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह।
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥ 5-127-10(36064)
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि।
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥ 5-127-11(36065)
न चापि वयमुग्रेण कर्मणा वचनेन वा।
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम् ॥ 5-127-12(36066)
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥ 5-127-13(36067)
न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन।
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥ 5-127-14(36068)
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे।
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत् ॥ 5-127-15(36069)
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ॥ 5-127-16(36070)
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे।
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव ॥ 5-127-17(36071)
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित् ॥ 5-127-18(36072)
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित् ॥ 5-127-19(36073)
इति मातङ्गवचनं परिप्सन्ति हितेप्सवः ।
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः॥ 5-127-20(36074)
अचिन्तयन्कंचिदन्यं यावज्जीवं तथा चरेत्।
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥ 5-127-21(36075)
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत्।
न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ 5-127-22(36076)
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन ।
न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम माधव ।
अप्रदेयं पुरा दत्तं राज्यं परवतो मम ॥ 5-127-23(36077)
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन ।
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ॥ 5-127-24(36078)
ध्रियमाणे महाबाहौ मयि संप्रति केशव ।
यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण केशव ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ ॥ 5-127-25(36079)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-127-19 अपर्वणि अप्रस्तावे ॥ 5-127-20 मातंगः मुनिः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.